(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.167. अध्यायः 167
Mahabharata - Drona Parva - Chapter Topics
सात्यकिना भूरिनाम्नो राज्ञो वधः॥ 1 ॥ द्रौणिना घटोत्कचपराजयः॥ 2 ॥ भीमेन दुर्योधनपराभवः॥ 3 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-167-0x(4716)(52567)
भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम्।
आपतन्तमपासेधत्प्रयाणादिव कुञ्जरम्॥ 7-167-1(52568)
अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः।
विव्याध हृदये तस्य प्रास्रवत्तस्य शोणितम्॥ 7-167-2(52569)
तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम्।
दशिभिर्निशितैस्तीक्ष्णैरविध्यत भुजान्तरे॥ 7-167-3(52570)
तावन्योन्यं महाराज ततक्षाते शरैर्भृशम्।
क्रोधसंरक्तनयनौ क्रोधाद्विष्फार्य कार्मुके॥ 7-167-4(52571)
तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा।
क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः॥ 7-167-5(52572)
तावन्योन्यं शरैः राजन्सञ्छाद्य समवस्थितौ।
मुहूर्तं चैव तद्युद्धं समरूपमिवाभावत्॥ 7-167-6(52573)
ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव।
धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः॥ 7-167-7(52574)
अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः।
विव्याध हृदये तूर्णं तिष्ठतिष्ठेति चाब्रवीत्॥ 7-167-8(52575)
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः।
धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत॥ 7-167-9(52576)
स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशाम्पते।
धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव॥ 7-167-10(52577)
छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्च्छितः।
प्रजहार महावेगां शक्तिं तस्य महोरसि॥ 7-167-11(52578)
स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात्।
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया॥ 7-167-12(52579)
तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः।
अभ्यधावत वेगेन शैनेयं प्रति संयुगे॥ 7-167-13(52580)
तिष्ठतिष्ठेति चाभाष्य शैनेयं स नराधिप।
अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः॥ 7-167-14(52581)
तमापतन्तं संरब्धं शैनेयस्य रथं प्रति।
घटोत्कचोऽब्रवीद्राजन्नाहं मुक्त्वा महारथः॥ 7-167-15(52582)
तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि।
एष त्वां निहनिष्यामि महिषं मृगराडिव॥ 7-167-16(52583)
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे।
इत्युक्त्वा क्रोधताम्राक्षो राक्षसः परवीरहा।
द्रोणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी॥ 7-167-17(52584)
रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः।
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः॥ 7-167-18(52585)
शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः।
शातयामास समरे तरसा द्रौणिरुत्स्मयन्॥ 7-167-19(52586)
ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः।
समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिन्दमम्॥ 7-167-20(52587)
स शरैराचितस्तेन राक्षसो रणमूर्धनि।
व्यकाशत महाराज श्वाविच्छललतो यथा॥ 7-167-21(52588)
ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान्।
शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिप्रभैः॥ 7-167-22(52589)
क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः।
वराहकर्णैर्नालीकैर्विकर्णैश्चाभ्यवीवृषत्॥ 7-167-23(52590)
तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम्।
पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः॥ 7-167-24(52591)
सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः।
व्यधमत्सुमहातेजा महाभ्राणीव मारुतः॥ 7-167-25(52592)
ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत्।
घोररूपो महाराज योधानां हर्षवर्धनः॥ 7-167-26(52593)
ततोऽस्त्रसन्धर्षकृतैर्विस्फुलिङ्गैः समन्ततः।
वमौ निशामुखे व्योम खद्योतैरिव संवृतम्॥ 7-167-27(52594)
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः.
प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत्॥ 7-167-28(52595)
ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे।
विगाढे रजनीमध्ये शक्रप्रह्लादयोरिव॥ 7-167-29(52596)
ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे।
जघानोरसि सङ्क्रुद्धः कालज्वलनसन्निभैः॥ 7-167-30(52597)
स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः।
चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः॥ 7-167-31(52598)
स मोहं समरे प्राप्तो ध्वजयष्टिं समाश्रितः॥ 7-167-32(52599)
ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप।
हतं स्म मेनिरे सर्वे द्रोणसूनुं जनाधिपाः॥ 7-167-33(52600)
तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे।
पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे॥ 7-167-34(52601)
प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः।
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः॥ 7-167-35(52602)
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्।
यमदण़्डोपमं घोरमुद्दिश्याशु घटोत्कचम्॥ 7-167-36(52603)
स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः।
विवेश वसुधामुग्रः सपुङ्खः पृथिवीपते॥ 7-167-37(52604)
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्।
राक्षसेन्द्रः पुबलवान्द्रौणिना रणशालिना॥ 7-167-38(52605)
दृष्ट्वा विमूढं हैडिम्बं सारथिस्तु रणाजिरात्।
द्रौणेः सकाशात्सम्भ्रान्तस्त्वपनिन्येत्वरान्वितः॥ 7-167-39(52606)
तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम्।
ननाद सुमहानादं द्रोणपुत्रो महारथः॥ 7-167-40(52607)
पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत।
वपुषाऽतिप्रजज्वाल मध्याह्न इव भास्करः॥ 7-167-41(52608)
भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति।
स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः॥ 7-167-42(52609)
तं भीमसेनो दशभिः शरैर्विव्याध मारिष।
दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत॥ 7-167-43(52610)
तौ सायकैरवच्छिन्नावदृश्येतां रणाजिरे।
मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ॥ 7-167-44(52611)
अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः।
पञ्चभिर्भरतश्रेष्ठ तिष्ठतिष्ठेति चाब्रवीत्॥ 7-167-45(52612)
तस्य भीमो धनुश्छित्त्वा ध्वजं च दशभिः शरैः।
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम्॥ 7-167-46(52613)
ततो दुर्योधनः क्रुद्धो भनुरन्यन्महत्तरम्।
गृहीत्वा भरतश्रेष्ठो भीमसेनं शितैः शरैः।
अपीडयद्रणमुखे पश्यतां सर्वधन्विनाम्॥ 7-167-47(52614)
तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान्।
कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्॥ 7-167-48(52615)
दुर्योधनस्तु सङ्क्रुद्धो भीमसेनस्य मारिष।
क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत॥ 7-167-49(52616)
अथान्यद्धनुरादाय भीमसेनो महाबलः।
विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः॥ 7-167-50(52617)
तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत्।
द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा॥ 7-167-51(52618)
आत्तमात्तं महाराज भीमस्य धनुराच्छिनत्।
तव पुत्रो महाराज जितकाशी मदोत्कटः॥ 7-167-52(52619)
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः।
शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम्॥ 7-167-53(52620)
मृत्योरिव स्वसारं हि दीप्तां वह्निशिखामिव।
सीमन्तमिव कुर्वन्तीं नभसोऽग्निसमप्रभाम्॥ 7-167-54(52621)
अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः।
पश्यतः सर्वलोकस्य भीमस्य च महात्मनः॥ 7-167-55(52622)
ततो भीमो महाराज गदां गुर्वीं महाप्रभाम्।
चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति॥ 7-167-56(52623)
ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे।
सारथिं च गदा गुर्वी ममर्दास्य रथं पुनः॥ 7-167-57(52624)
पुत्रस्तु तव राजेन्द्र भीमाद्भीतः प्रणश्य च।
आरुरोह रथं चान्यं नन्दकस्य महात्मनः॥ 7-167-58(52625)
ततो भीमो हतं मत्वा तव पुत्रं महारथम्।
सिंहनादं महच्चक्रे तर्जयन्निशि कौरवान्॥ 7-167-59(52626)
तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम्।
ततोऽतिचुक्रुशुः सर्वे ते हाहेति समन्ततः॥ 7-167-60(52627)
तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम्।
भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः॥ 7-167-61(52628)
ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम्।
अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः॥ 7-167-62(52629)
पाञ्चलाः केकया मात्स्याः सृञ्जयाश्च विशाम्पते।
सर्वोद्योगेनाभिजग्मुद्रोणमेव युयुत्सया॥ 7-167-63(52630)
तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह।
घोरे तमसि मग्नानां निघ्नतामितरेतरम्॥ ॥ 7-167-64(52631)

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे सप्तषष्ट्यधिक शततमोऽध्यायः॥ 167 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-167-1 प्रयाणाद्यानस्थानात्। प्रवणादिति पाठे प्रवणं प्रकृष्टं वनं जलम्॥ 5-167-2 तस्य सात्यकेः। तस्य तस्माद्धृदयात्॥ 5-167-12 लोहिताङ्गः कुजः। यदृच्छया दैवेनेत्यभूतोपमा॥ 5-167-16 महिषमसुरम्। महिषं षण्मुखो यथा इति घ.ङ.झ.पाठः॥ 5-167-21 श्वाविच्छल्यकः। शललतः शललीभिः॥ 5-167-58 प्रणश्य निलीनो भूत्वा॥ 5-167-167 सप्तषष्ट्यधिकशततमोऽध्यायः॥ 167 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.